आयुर्वेदः


Contributors to Wikimedia projects

Article Images

स्वास्थ्यरक्षणे आयुर्वेदस्य प्राधान्यमभिलक्ष्य आयुर्वेदः अथर्ववेदस्य उपवेदत्वेन प्रथां भजते। मतमिदं चरकसुश्रुतवाग्भटादिभिः प्रमुखायुर्वेदाचार्यैरेव प्रकाशितम् । व्याख्यानकारः चक्रपाणिरपि एवं वदति -

हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

परम्पराः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

’आयुर्वेदस्य आयुर्वेदत्वमुक्तं भवति, अथर्ववेदैकशेष एव आयुर्वेदः’ इति।

’आयुर्वेद’ - शब्दस्य व्युत्पत्तिं साधयद्भिराचार्यैः प्रकटीकृतम् -

’आयुरस्मिन् विद्यते, अनेन वा आयुर्विन्दति’ इति। ’भावप्रकाश’ - टीकाकारोपि ’आयुर्वेद’ शब्दम् एवं विशदीकरोति -

अनेन पुरुषो यस्माद् आयुर्विन्दति वेत्ति च ।
तस्मान्मुनिवरेरेष ’आयुर्वेद’ इति स्मृतः ॥
आयुर्वेदचिकित्सायन्त्रम्

आयुर्वेदस्य इतिहासः वैदिककालादेव आरभ्यते। अतः पश्चात्सहस्रवर्षेभ्योऽपि प्राचीनोऽयं इतिहासः। विशेषतः क्रिस्तपूर्वचतुर्थशतकादारभ्य क्रिस्तशकस्य ११ शतकपर्यन्तम् आयुर्वेदस्य उत्कृष्टपरम्पराः न केवलं प्रचारे आसन् अपि तु तत्कालीनेषु प्रख्यातेषु नालन्दा, विक्रमशीला, वलभी इत्यादिषु विश्वविद्यालयेषु प्रमुखविषयत्वेन पाठ्यन्ते स्म। भारतीयेः सह विदेशीयच्छात्रा अपि अस्य प्रयोजनं प्राप्तवन्त आसन्।

 
धन्वन्तरिः

चरकाचार्यविरचिता ’चरकसंहिता’, सुश्रुताचार्यप्रणीता ’सुश्रुतसंहिता’, वाग्भटग्रथितम् ’अष्टाङ्गहृदयम्’, माधवकरस्य ’माधवनिदानम्’, शार्ङ्गधरस्य 'शार्ङ्गधरपद्धति:’ इत्यादयः आयुर्वेदस्य प्रमुखग्रन्थाः। चरकसंहितायां ३४१ सस्यजन्यद्रव्याणां, १७७ प्राणिजन्यद्रव्याणां, ६४ खनिजद्रव्याणां च उल्लेखः कृतोऽस्ति। ग्रन्थस्यास्य महत्त्वमभिलक्ष्य अस्य नैकानि व्याख्यानानि रचितानि।चरकसंहितायां 8 स्थानानि सन्ति। मूलत: एषा अग्निवेशेन रचिता संहिता।तत्र चरकमहर्षिणा प्रतिसंस्कार: कृत:। तत: दृढबलनाम्ना अपरेण वैद्येन संपूरणं कृतम्। एवम् अद्य उपलब्धायां चरकसंहितायाम् एषां त्रयाणां कर्तृत्वं विद्यते।

आयुर्वेदानुसारेण आयुः चतुर्विधम् - हितायुः, अहितायुः, सुखायुः, दुःखायुश्चेति।

हिताहितं सुखं दुःखं आयुस्तस्य हिताहितम् ।
मानं च तच्च यत्रोक्तं आयुर्वेदः स उच्यते ॥ च.सू.३.४१॥

मानसिकशारीरकरोगरहितस्य ज्ञानिनः सुदृढवतः मानवस्य आयुः सुखायुः। एतद्विपरीतं दुःखायुः। अरिषड्वर्गविजितस्य सर्वभूतहिते रतस्य आयुः हितायुः। तद्विरोधे अहितायुः भवति।

आयुश्च शरीरेन्द्रियसत्त्वात्मसंयोगः। इत्थं हि शरीरं तु नानाविध-आधि-व्याधिनाम् आगारमेव। अतः व्याध्युपसृष्टानां व्याधिपरिमोक्षः, स्वस्थस्य स्वास्थ्थरक्षणं च आयुर्वेदस्य द्वे प्रयोजने।

कृत्स्नोऽपि आयुर्वेदः अष्टधा विभक्तः। शल्य-शालाक्य-कायचिकित्सा-कौमारभृत्य-अगदतन्त्र-रसायनतन्त्र-वाजीकरणानीति। इदानीं प्रत्येकमङ्गं विवेचयामः।

शल्यतन्त्रम् (Surgery and Midwifery)

सम्पादयतु

तन्त्रमिदं पाश्चात्यचिकित्सायां Surgery and Midwifery पदेन व्यपदिश्यते। मूत्रपुरीषयोः निरोधे चर्मशलाकया लोहशलाकया वा शल्यक्रिया, गण्डमालाभेषज्यप्रसङ्गे, दुष्करप्रसवप्रसङ्गेषु च क्रियमाणाः प्रभूताः शल्यक्रियाः (शस्त्रक्रिया) सुश्रुतसंहितायाम् उल्लिखिताः सन्ति।

 
शिरोधारायन्त्रम्

शालाक्यतन्त्रम् (Opthamology including ENT and Dentistry)

सम्पादयतु

ग्रीवायाः उपरिभागस्य आन्तरिकचिकित्सा शालाक्यान्तर्भूता। चक्षुर्नासागलश्रोत्रमुखसम्बन्धिरोगोणां निवारणोपायाः भृशं वर्णितः। शिरोरोगकेशरोगाणां निवृत्तौ नानाविधोपचाराः समुपलभ्यन्ते। केशवर्धनं, तेषां कृष्णत्वं सौन्दर्यं च, खल्वाटानां चिकित्सनमपि सौषधनिर्देशनम् उपदिष्टम्।

विविधशारीरकरोगाणां लक्षण-निदान-परिहारोपायाः विभागेऽस्मिन् विशदीकृताः। कायचिकित्सान्तर्गताः शरीरोदररोगाः ज्वरयक्ष्मपक्षाघातस्रावजलोदरोदरशूल-वातपित्तकफादयो नैकविधाः। अन्यदपि हृद्रोगपाण्डु-उदरशूल-तृषितत्वादिनां रोगाणां भैषज्यं कायचिकित्साविभागे वर्णितमस्ति। कायशब्दस्य अर्थ: अग्नि: । अग्निविकृतिजन्यानां रोगाणां चिन्तनम् अस्मिन् अङ्गे भवति । (सन्दर्भ: - सुश्रुतसंहिता, सूत्रस्थान १.७ - डह्लणटीका )

मानसरोगविज्ञानम् अपरं नाम अस्याः चिकित्सायाः। मनसि राजसतामसगुणेषु आवृतेषु सत्सु उन्माद-अपस्मार-अतत्त्वाभिनिवेशः इत्यादिरोगाः भवन्ति। सुप्तसम्मोहनादिविधानेन एषां रोगाणां चिकित्सा भवितुमर्हति। तथैव यक्षपिशाचासुरनागादिदुष्टसमाविष्ट-चित्तानां च व्यक्तीनां चिकित्सा भूतविद्यया भवति। विविधयन्त्रमन्त्रमणीनां प्रयोगः अत्र कार्यः भवति।

रसायनतन्त्रम् (Rejuvenation and Geriatrics)

सम्पादयतु

वाजीकरणम् (Virilification, Science of Aphrodisiac and Sexology)

सम्पादयतु

आयुर्वेदे त्रयः दोषाः सन्ति । एते वातः पित्तः कफः इति।

आयुर्वेदे षड्रसाः भवन्ति । एते मधुरः कटुः अम्लः तिक्तः कषायः लवणः इति।

तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः ।
तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु ॥ (अमरकोशः १. ५. ३३४)