यो मामेवमसम्मूढो...


Contributors to Wikimedia projects

Article Images

यो मामेवमसम्मूढो...

भगवद्गीतायाः श्लोकः १५.१९

(१५.१९ योमामेवमसम्मूढो…. इत्यस्मात् पुनर्निर्दिष्टम्)

 
गीतोपदेशः
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥ १९ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य नवदशः(१९) श्लोकः ।

यः माम् एवम् असम्मूढः जानाति पुरुषोत्तमम् सः सर्ववित् भजति मां सर्वभावेन भारत ॥

भारत ! यः असम्मूढः मां पुरुषोत्तमं जानाति सः सर्ववित् सर्वभावेन भजति ।

असम्मूढः = विवेकी
सर्ववित् = सर्वज्ञः
सर्वभावेन = सर्वात्मना ।

अर्जुन ! यः मानवः विवेकी सन् एवं मां पुरुषोत्तमं वेत्ति सः मानवः सर्वज्ञः । सः सर्वप्रकारेण मामेव सेवते ।