असंयतात्मना योगो...


Contributors to Wikimedia projects

Article Images

असंयतात्मना योगो...

भगवद्गीतायाः श्लोकः ६.३६

(६.३६ असंयतात्मना... इत्यस्मात् पुनर्निर्दिष्टम्)

 
गीतोपदेशः
असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ ३६ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य षड्त्रिंशत्तमः(३६) श्लोकः ।

असंयतात्मना योगः दुष्प्रापः इति मे मतिः वश्यात्मना तु यतता शक्यः अवाप्तुम् उपायतः ॥

असंयतात्मना योगः दुष्प्रापः इति मे मतिः । यतता वश्यात्मना तु उपायतः अवाप्तुं शक्यः ।

असंयतात्मना = अनिरुद्धचित्तेन
योगः = समाधिः
दुष्प्रापः इति = दुर्लभः इति
मे मतिः = मम आशयः
यतता = प्रयत्नवता
वश्यात्मना तु = निगृहीतचित्तेन पुनः
उपायतः = साधनेन
अवाप्तुम्= लब्धुम्
शक्यः = साध्यः ।

अभ्यासेन वैराग्येण च यो मनः निग्रहीतुं न शक्नोति तस्य योगः दुर्लभः किन्तु प्रयत्नशीलेन निगृहीतचित्तेन पुरुषेण साधनम् अवलम्ब्य सः योगः प्राप्तुं शक्यः इति मे मतम् ।