पूर्वाभ्यासेन तेनैव...


Contributors to Wikimedia projects

Article Images

पूर्वाभ्यासेन तेनैव...

भगवद्गीतायाः श्लोकः ६.४४

(६.४४ पूर्वाभ्यासेन तेन... इत्यस्मात् पुनर्निर्दिष्टम्)

 
गीतोपदेशः
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ४४ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य चतुश्चत्वारिंशत्तमः(४४) श्लोकः ।

पूर्वाभ्यासेन तेन एव ह्रियते हि अवशः अपि सः जिज्ञासुः अपि योगस्य शब्दब्रह्म अतिवर्तते ॥

सः अवशः अपि तेन पूर्वाभ्यासेन एव ह्रियते । योगस्य जिज्ञासुः अपि शब्दब्रह्म अतिवर्तते हि ।

सः = तादृशः पुरुषः
अवशः अपि = अनधीनोऽपि
तेन = तेन
पूर्वाभ्यासेन एव =पूर्वजन्मसंस्कारेणैव
ह्रियते = आकृष्यते
योगस्य = योगमार्गस्य
जिज्ञासुः अपि = ज्ञानेच्छुः अपि
शब्दब्रह्म=कर्मप्रतिपादकवेदभागम्
अतिवर्तते हि = अतिक्राम्यति खलु ।

सः योगभ्रष्टः जन्मान्तरीयाभ्यासस्य वशात् विषयाणामभिमुखोऽपि तस्मिन् जन्मनि योगम् एव अभिगच्छति । योगस्य जिज्ञासुः अपि सः वेदोक्तकर्मफलम् अतिक्रम्य वर्तते । कर्माधिकारम् उपेक्ष्य ज्ञानाधिकारे एव निष्ठां करोति इत्यर्थः ।