योगिनामपि सर्वेषां...


Contributors to Wikimedia projects

Article Images

योगिनामपि सर्वेषां...

भगवद्गीतायाः श्लोकः ६.४७

(६.४७ योगिनामपि... इत्यस्मात् पुनर्निर्दिष्टम्)

 
गीतोपदेशः
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ ४७ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य सप्तचत्वारिंशत्तमः(४७) श्लोकः ।

योगिनाम् अपि सर्वेषां मद्गतेन अन्तरात्मना श्रद्धावान् भजते यः मां सः मे युक्ततमः मतः ॥

सर्वेषां योगिनाम् अपि यः श्रद्धावान् मद्गतेन अन्तरात्मना मां भजते सः मे युक्ततमः मतः ।

सर्वेषाम् = सकलानाम्

योगिनाम् अपि = युक्तानाम् अपि
यः = यः पुरुषः
श्रद्धावान् = श्रद्धालुः सन्
मद्गतेन = मयि स्थितेन
अन्तरात्मना = चित्तेन
माम् = माम्
भजते = सेवते
सः = सः पुरुषः
मे = मम
युक्ततमः = आप्ततमः
मतः = अभिमतः ।

योगिषु अपि यः वासुदेवे मयि श्रद्दधानः सन् मामेव समाहितान्तःकरणः सन् भजते सः मम अतिशयेन आप्तः भवति ।